Home upakarma_yajusha_telugu.pdf (Click this file, if you have any font issues)
आचार्यः शिष्यैस्सह नद्यां स्नात्वा। दर्भेष्वासीनः दर्भान्धारयमाणः।।
आचम्य - - - प्रीत्यर्थं श्रावण्यां पौर्णमास्यां अधीतानां अध्येष्यमाणानां छन्दसांच सवीर्यत्वाय, अयातयामत्वाय च, शिष्यैस्सह- अध्यायोपाकर्म करिष्ये।। (आचर्य वचनम्)
गणपति पूजां, पुण्याहं वाचयित्वा
स्वलंकृते पीठे, प्रणव व्याहृति त्रय सहितैः तत्तन्नाम मन्त्रैः, प्रजापत्यादि नवऋषी नावाहयेत्।। (निवीती भूत्वा)
प्रजापतिं काण्डऋषिम्- आवाहयामि
सोमं काण्डऋषिम्- आवाहयामि
अग्निं काण्डऋषिम्- आवाहयामि
विश्वान्देवान् काण्डर्षीन् वाहयामि
सांहितीर्देवता उपनिषदः- आवाहयामि
वारुणीर्देवता उपनिषदः- आवाहयामि
याज्ञिकीर्देवता उपनिषदः- आवाहयामि
ब्रह्माणं स्वयंभुवम् आवाहयामि
सदसस्पतिम्- आवाहयामि (उपवीती)
आवाहित नवऋषिदेवताभ्यो नमः। यथाशक्ति ध्यान- आवाहनादि षोडशोपचार पूजां करिष्ये।।
नवर्षि तर्पणम्
पूर्वोक्त एवंगुण विशेषण विशिष्टायाम्, अस्यां शुभतिथौ------ प्रीत्यर्थं प्राजापत्यादि नवऋषि तर्पणं करिष्ये।।
निवीती भूत्वा।।
प्रजापतिं काण्डऋषिम्- तर्पयामि। तर्पयामि।।
सोमं काण्डऋषिम्- तर्पयामि। तर्पयामि।।
अग्निं काण्डऋषिम्- तर्पयामि। तर्पयामि।।
विश्वान्देवान् काण्डऋषीग् स्तर्पयामि। तर्पयामि।।
साहितीर्देवता उपनिषदः। तर्पयामि। तर्पयामि।।
वारुणीर्देवता उपनिषदः। तर्पयामि। तर्पयामि।।
याज्ञिकीर्देवता उपनिषदः। तर्पयामि। तर्पयामि।।
ब्रह्माणग्ग् स्वयंभुवं। तर्पयामि। तर्पयामि।।
सदसस्पतिं। तर्पयामि। तर्पयामि।। (उपवीती)
आचार्यः प्राजापत्यादी नवऋषीन् जुहुयात्
यज्ञोपवीत पूज, दान धारणम्
आचम्य ----- प्रीत्यर्थम्, अध्यायोपाकर्मांगत्वेन श्रौत स्मार्त, नित्य कर्मानुष्ठान योग्यता सिद्ध्यर्थं,
नूतन यज्ञोपवीत धारणं करिष्ये।।
तदंगत्वेन यज्ञोपवीत पूजां करिष्ये।।
• यज्ञोपवीत देवताभ्योनमः। ध्यायामि। ध्यानं समर्पयामि।
• यज्ञोपवीत देवताभ्योनमः। आवाहयामि।। आसनं समर्पयामि।।
• यज्ञोपवीत देवताभ्योनमः। पादारविन्दयो पाद्यं समर्पयामि।।
• यज्ञोपवीत देवताभ्योनमः। हस्तयोः अर्घ्यं समर्पयामि।।
• यज्ञोपवीत देवताभ्योनमः। मुखे शुद्ध आचमनीयं समर्पयामि।।
• यज्ञोपवीत देवताभ्योनमः। शुद्धोदक स्नानं समर्पयामि। स्नानानंतरं मुखे शुद्धाचमनीयं समर्पयामि।।
• यज्ञोपवीत देवताभ्योनमः। वस्त्रयुग्मं समर्पयामि। वस्त्र धारणानन्तरं शुद्धाचमनीयं समर्पयामि।।
• यज्ञोपवीत देवताभ्योनमः। यज्ञोपवीतं समर्पयामि।। यज्ञोपवीत धारणानन्तरं शुद्धाचमनीयं समर्पयामि।।
• यज्ञोपवीत देवताभ्योनमः। दिव्य श्री चन्दनं समर्पयामि।।
• यज्ञोपवीत देवताभ्योनमः। अक्षतान् समर्पयामि।।
अथ नामपूजां समर्पयामि।।
• प्रजापतये नमः। परमेष्ठिने नमः।
• ब्रह्मणे नमः। धात्रे नमः।
• विधात्रे नमः। शब्दहेतवे नमः।
• मनोरूपाय नमः। सर्व विद्या स्वरूपाय नमः।
धूपः –
वनस्पत्युद्भवै र्दिव्यै र्नाना गन्धै स्सुसंयुतः।
आघ्रेय स्सर्वदेवानां धूपोयं प्रतिगृह्यताम्।।
यज्ञोपवीत देवताभ्योनमः धूपमाघ्रापयामि।।
दीपः -
साज्यं त्रिवर्ति संयुक्तं वह्निना योजितं प्रियम्।
गृहाण मंगळं दीपं त्रैलोक्य तिमिरापहा।
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने।
त्राहि मां नरकाद् घोरा द्दिव्यज्योति र्नमोस्तुते।।
यज्ञोपवीत देवताभ्योनमः दीपं दर्शयामि।
धूप दीपानन्तरं शुद्धाचमनीयं समर्पयामि।।
नैवेद्यं -
यज्ञोपवीत देवताभ्योनमः अमृतोपहार नैवेद्यं निवेदयामि।
नैवेद्यं षड्रसोपेतं फल लड्डुक संयुतम्।
निवेदनं सुरश्रेष्ठ प्रीत्यै तत् प्रतिगृह्यताम्।।
यज्ञोपवीत देवताभ्योनमः। नैवेद्यं निवेदयामि। मध्ये मध्ये पानीयं समर्पयामि। हस्तौ प्रक्षाळयामि। पादौ प्रक्षाळयामि। मुखे शुद्धाचमनीयं समर्पयामि।।
तांबूलम् –
पूगी फलै स्सकर्पूरैर् नागवल्ली दळैर्युतम्।
मुक्ताचूर्ण समायुक्तं ताम्बूलं प्रतिगृह्यताम्।।
यज्ञोपवीत देवताभ्योनमः। ताम्बूलं समर्पयामि।।
नीराजनम् –
घृतवर्ति सहस्रैश्च कर्पूर शकलै स्तथा।
नीराजनं मया दत्तं गृहाण वरदो भव।।
यज्ञोपवीत देवताभ्योनमः। नीराजनं सन्दर्शयामि।। नीराजनान्तरं शुद्धाचमनीयं समर्पयामि। रक्षां गृह्णामि।।
मन्त्रपुष्पम् –
यज्ञोपवीत देवताभ्योनमः। सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि।।
प्रदक्षिणम् –
यानि कानि च पापानि जन्मान्तर कृतानि च।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे।।
पापोहं पापकर्माहं पापात्मा पापसंभवः।
त्राहि मां कृपया देव शरणागत वत्सल।।
अन्यथा शरणं नास्ति त्वमेव शरणं मम।
तस्मा त्कारुण्य भावेन रक्ष रक्ष महेश्वर।।
श्री यज्ञोपवीत देवताभ्योनमः प्रदक्षिण नमस्कारान् समर्पयामि।।
अनेन पूजनेन भवागन् सर्वात्मः श्री परमेश्वरः सुप्रीणातु
आचम्य ----- प्रीत्यर्थं अध्यायोपाकर्मांगत्वेन नूतन यज्ञोपवीत धारण साद्गुण्यार्थं, यज्ञोपवीत दानं करिष्ये।।
अस्मै ब्राह्मणाय श्री महाविष्णु स्वरूपाय
सदक्षिणाकं यज्ञोपवीतं तुभ्यमहं संप्रददे न मम।।
आचम्य ----- प्रीत्यर्थं अध्यायोपाकर्मांगत्वेन, श्रौत स्मार्त, नित्यकर्मानुष्ठान योग्यता सिद्ध्यर्थं, नूतन यज्ञोपवीत धारणं करिष्ये।।
ओं यज्ञोपवीतं परमं पवित्रं प्रजापतेर् यत्सहजं पुरस्तात्। आयुष्य मग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः।।
यज्ञोपवीत धारण साद्गुण्यार्थं
यथाशक्ति गायत्री जपं करिष्ये।।
यज्ञोपवीत विसर्जनम् –
उपवीतं छिन्नतन्तुं जीर्णं कश्मलदूषितम्।
विसृजामि यशाब्रह्मा वर्चोदीर्घायुरस्तुम्।।
कामोकार्षीन्नमो नमः। मन्युः कार्षीन्नमो नमः।।
(इति जपित्वा, ब्रह्मयज्ञेन यजेत।।
अनेन अध्यायोपाकर्मणा श्रीपरमेश्वरसमर्पणमस्तु।