|
-
अग्निर्नः पातु देवेशः कृत्तिकाना.मधीश्वरः.
अम्बा दुला नितत्नि.-श्चाऽभ्रयन्ती मेघयन्तिका.. 1
-
वर्षयन्ती चुपुणीका देवता इन्द्रियप्रदाः.
आस्ये विचक्षणं यूयं- हवि.र्जुहुत भक्तितः..2
-
यस्य प्रभान्ति धूमा हि केतुरूपाश्च रश्मयः.
-
ऽधीनानि सर्वाणि भुवनानि चतुर्दश.. 3
-
स कृत्तिकाभि.रात्मान- माच्छादयति हव्यवाट्.
दधा.त्वस्मान् सप्तजिह्वः- कर्मणः फल.मापयन्..4
अग्नये नमः. कृत्तिकाभ्यो नमः.
-
प्रजापतेः पालयित्री रोहिणी वेत्विदं हविः.
विचित्रदीप्तिर् बृहती विश्वरूपा विवर्धनी..5
-
सुपुत्रपौत्रा.न्छरदो- जीवये.न्न.श्शतं ध्रुवम्.
सा यच्छन्ती कर्मफलं दधा.त्वस्मा.न्छुभप्रदा..6
-
पूर्वस्या.मुदयं यान्ती रोहिणी भासते समम्.
जनीन् सर्वान् मोदयन्ती हविषाऽपि प्रजापतिम्. 7
-
वर्धयन्ती देवतानां प्रीणयित्री समैतु माम्.
संपारये.द्यज्ञ.मेतं भावुकं स्यात् कुलस्य मे..8
प्रजापतये नमः. रोहिण्यै नमः..
-
मृगशीर्षेण सहितो नक्षत्रेण स सोमराट्.
यज्ञ.मायातु ताराणा.-मधिपो मङ्गलाय नः..9
-
शिवं प्रियं भ.मेतस्य शुभप्रद.मुदीरितम्.
रेतो वर्धयतां देवो जनानां वीर्यवत्तरम्..10
-
उडुश्च मृगशीर्षोयं प्रियः प्रियतमेषु ते.
हे सोम राजन् तस्मै ते हवींषि नमसाऽर्पये.. 11
-
मनुष्येभ्य.स्सुखं भूयात् पशुभ्योपि निरन्तरम्.
तथानुगृह्य रक्षे.र्मा.-मोषधीश नमोऽस्तु ते.. 12
सोमाय नमः. मृगशीर्षाय नमः..
-
आर्द्रा नक्षत्रसहितः प्रसिध्यन् रुद्रनामकः.
देव.श्श्रेष्ठो गवां पाता ऽघ्नियाना. मैतु मेश्वरः.. 13
-
नक्षत्र.मस्य मा हिंसीत्- सन्तानं मामकं पुनः.
वीरा.निह प्रीणयानि हविषा सन्ततं शिवम्..14
-
रुद्रस्यायुध.मस्मा.न्मा हेतिः परिवृणक्तु तत्.
अस्माभि.रर्पितं हव्य.-मार्द्रा.भं जुषतां सदा..15
-
आर्द्रा.रुद्रौ ममैनांसि मोचयेतां क्षणेन वै.
अरातिं मम यज्ञस्य हरतां पापकीर्तनम्..16
रुद्राय नमः. आर्द्रायै नमः..
-
पुनर्वसू.नामकौ ता.- वदिते.स्तारकात्मकौ.
स्वयो.रधिष्ठायिकया यज्ञ.मेतां शुभङ्करौ..17
-
सर्वे देवा यज्ञभूमि.- मिमा.मभ्याप्नुवन्तु मे.
सादिती.नादितेयांश्च पुन.रेतान् जुहो.म्यहम्..18
-
वात्सल्येन समायान्ती भर्त्री विश्वस्य मङ्गला.
-
ऽघ.दूरस्था प्रतिष्ठा जगतोऽदितिः.. 19
-
पाथः प्रियं समाप्नोतु हव्य.मस्माक.मिष्टदा.
पुनर्वस्वोः प्रजातांश्च वर्धयन्ती जनान् सदा..20
अदित्यै नमः. पुनर्वसुभ्यां नमः..
-
बृहस्पति.र्देवपूज्य- स्तिष्य.नक्षत्र.देवता.
जायमानो विष्णुपदे स्वकीयान् रक्षतात् सदा.. 21
-
स जिष्णु. रप्रतिरथः पृतनासु च वैरिणाम्.
-
ऽस्माक.- मभयं दिक्षु सम्भवेत्.. 22
-
शैशवे बाल्य एवास्मान् यौवने वार्धके तथा.
तिष्यो बृहस्पति. स्सर्वान् परिपातां शुभाय च..23
-
आन्तरान् बाहिरान् द्वेष्टॄन् बाधित्वाऽभीति. मुत्तमाम्.
कुरुतां तेन भूयास्म सामर्थ्येन युता वयम्..24
बृहस्पतये नमः. तिष्याय नमः..
-
आश्रेषा नाम नक्षत्र- देहा.स्सर्पाधिदैवताः.
अस्माकं स्वाहुतं हव्यं जुषन्तां हृष्टमानसाः..25
-
पृथिवी. मन्तरिक्षञ्च येऽधितिष्ठन्ति वै दिवम्.
यज्ञ.मायान्तु ते सर्वे सर्पा दोष.प्रहारकाः..26
-
ये त्वभिव्याप्य तिग्मांशोर्- दन्दशूकाश्च दीधितीन्.
-
ऽप्सुषद.श्चैव खेचरा. स्सर्पदेवताः.. 27
-
मधुम.द्धव्य. मेताभ्य.- स्सश्रद्धं प्रददा.म्यहम्.
सन्तर्पिताः करम्भैश्च द्विषो मे नाशयन्तु ते..28
सर्पेभ्यो नमः - आश्रेषाभ्यो नमः..
-
मघा नक्षत्र देवेभ्यः पितृभ्यः प्रणति.र्मम.
मनोजवा. स्सुष्ठुकर्म-कुशलाः कृतकृत्यकाः..29
-
हव.मस्माक.मायान्तु मामकाः पितरोऽधुना.
स्वधाभिः प्रयतं यज्ञं सेवन्तां पितरो मम..30
-
संस्कृतेनाऽग्निना दग्धा.- स्तदन्येऽसंस्कृताः पुनः.
लोकेमुष्मिन् ये वसन्ति पितृलोके नमस्कृताः..31
-
वयं यान् विद्म पित्रादीन् यान्न विद्म च पूर्वजान्.
ते सर्वे यज्ञ.मागत्य गृह्णतां संस्कृतं हविः..32
पितृभ्यो नमः. मघाभ्यो नमः..
-
9 अर्यमा - पूर्व फल्गुन्यौ
-
फल्गुनीनां पते देव गवां पति.रसि प्रभो.
-
वरुणेति च मित्रेति प्रख्यातोऽसि त्व.मर्यमन्.. 33
-
दातव्यानां सनीनां त्वं धनानां सनिता भृशम्.
-
त्वत्सेवयैव जीवन्तो जीवं त्वां स.मुपास्महे.. 34
-
जगन्ति सर्वाणीमानि वशीकृत्याऽवसि प्रभो.
-
देवा.स्त्वा.मनु संयन्ति त्वदधीना वशंवदाः.. 35
-
अजरोऽसि च वर्धिष्णू- राजा जीवगणस्य भोः.
-
फल्गुनीना.मधिष्ठाता वृषभो रोरवीषि मे.. 36
अर्यम्णे नमः. फल्गुनीभ्यां नमः..
-
10. भगः – उत्तर फल्गुन्यौ
-
हे भग श्रेष्ठ देवानां भगवा.नसि भास्वर.
ऐश्वर्य.धर्म.यशसां ज्ञान.वैराग्ययो. श्श्रियः..37
-
स्वामित्वेनाऽपि फल्गुन्यो विन्दन्ति त्वा.मवेहि ते.
महिमान महं जानै संप्रेरय मतिं प्रभो..38
-
गोमत् सुवीर्य.मजर.- मश्वव.द्रयि.माप्नुयाम्.
भगो दाता धनादीनां मण्यादीनां प्रदायकः..39
-
फल्गुनी.राविशन् देवो - बुद्धिं चोदयता.न्मम.
प्रसवेन तदीयेन मोदिषीय सुरै.स्सदा..40
भगाय नमः. फल्गुनीभ्यां नमः..
-
11 सविता - हस्त नक्षत्रम्
-
हस्त.नामक.नक्षत्रं सुभगं पुण्य.पावनम्.
फला.न्यभिमतानीह प्रयच्छत् पृण.दुत्तमम्..41
-
तन्नक्षत्राऽधिदेवोऽयं सविता मङ्गलप्रदः.
यज्ञ.मायातु स प्रीत्या हिरण्मयरथेन वै..42
-
कर्मणा प्रकृतेनैव युक्तो हस्तः प्रयच्छतु.
-
ऽमृत. मस्मभ्यं गृह्णीमो दक्षिणेन तत्.. 43
-
यो नो यज्ञं सुव.त्यद्य तं हस्ताय लभेमहि.
प्रचोदयन् मां सविता दाता संरक्षतात् सदा..44
सवित्रे नमः. हस्ताय नमः..
-
12 त्वष्टा - चित्रा नक्षत्रम्
-
सुभंससं सुजघन देश- युक्ताञ्च तारकाम्.
-
रोचमानां समागच्छन् त्वष्टा श्वश्रेयसङ्करः.. 45
-
देवा.न्मनुष्यान् स्वीयेषु रूपेषु विनिवेशयन्.
-
निरूपयन् लोकजातं विचष्टा.न्नः कृपाकरः.. 46
-
चित्रा नक्षत्र. मभ्येति त्वष्टा लोकस्य सर्जकः.
-
भूरिदा.श्चित्रया युक्तो मह्यं वीरवतीं प्रजाम्.. 47
-
पुण्यां सनोतु सततं चित्रकर्मा विभाकरः.
-
समृद्धं गोभि.रश्वैश्च यज्ञ.मेत.ङ्करोतु मे.. 48
त्वष्ट्रे नमः. चित्रायै नमः..
-
13 वायुः - निष्ट्या (स्वाती)
-
निष्ट्या.नक्षत्र.संयुक्तो वायुदेवः प्रसीदतु.
-
महाबलो वृष्टिहेतु.- र्लोकसञ्चालको विभुः.. 49
-
शब्दायमानो लोकस्थ- जीविन.स्तु समीरयन्.
-
स कामचार.श्शत्रून् मे- नुदता.मर्थसिद्धये.. 50
-
वायुनाऽधिष्ठिता तारा स्वाती विज्ञापनं मम.
-
श्रुत्वा भूयाद् भूरिदा मे पापाना.मपनोदनी.. 51
-
यस्या.मुदूढा कन्या चेत् सुख.माप्त्री सुशोभना.
-
तत्सङ्गता देवता मे त्वनु गृह्णन्तु वाञ्छितम्.. 52
वायवे नमः. निष्ट्यायै नमः..
-
विशाखानामिके तारे इन्द्राग्नीदेवते मम.
शत्रू.नुन्मूल्य सततं प्रददातां सुरक्षणम्..53
-
प्रकृतं यज्ञ.मस्माक.- मङ्गीकुर्वन्तु देवताः.
पश्चात् पुरस्ता.दभय.-मस्माकं भवतात् सदा..54
-
अधिपत्न्यौ तारकानां विशाखे कीर्तिते तथा.
इन्द्राग्नी च सुरश्रेष्ठौ भुवनत्रायकौ मतौ..55
-
अस्मच्छत्रून् पीडयित्वा- ऽरातिं क्षुध.मितोऽपि च.
निराकृत्य सुखं दत्त्वा निश्शत्रुं कुरुतां जनम्..56
इन्द्राग्निभ्यां नमः. विशाखाभ्यां नमः..
-
पौर्णमासी श्रेष्ठदेवी पूर्णा भासा निशाकरी.
पश्चात्तु पुरतो नून.-मुज्जिगाय विरोधिनः..57
-
मध्यत. स्समभिव्याप्य जगत् सुखयतीडिता.
ता.मधिष्ठाय देवा मां हर्षयन्तु क्रता.विह..58
-
उदयन्ती शोभमाना पृथुला युवति.र्मही.
हवींषि सेवमानेयं सुवर्चाः कुरुते हवम्..59
-
सफलं यजमानाय सश्रद्धाय पुनः पुनः.
आप्याययन्ती सुकृतं दुरितघ्नी प्रसीदतु..60
पौर्णमास्यै नमः
-
उपसीदेम तं मित्रं हविषा नमसा क्रतौ.
ऋध्यास्म मित्रधेयेन सप्रश्रयधियो वयम्..61
-
तदीयभ.मनूराधान्- हव्यैः परिचरेम हि.
शत.ञ्जीवेम शरद.-स्सापत्या.स्तत्फलेन वै..62
-
पुरस्ता.दुदगा.च्चित्रं नक्षत्रं मित्रदैवतम्.
-
ह्वयं पुण्यं सखायः पश्यताऽधुना.. 63
-
तदधिष्ठाय मित्रोऽय.- मैति देवाध्वभिः प्रभुः.
अन्तरिक्ष.व्यापिभिः प्र-काशमानै.रहर्निशम्..64
मित्राय नमः. अनूराधेभ्यो नमः..
-
ज्येष्ठाऽभिधं स्वं नक्षत्र.- मनुगच्छन् पुरन्दरः.
यस्मिन् निमित्ते नक्षत्रे शक्रो वृत्रं जघान ह..65
-
जुहुम.स्तच्छुभे भे तं हव्येनाऽमृतरूपिणा.
क्षुधं दुरिष्टिं दुरितिं तरेमैनःकृता इह..66
-
कामानां वर्षयित्रेऽस्मै धार्ष्ट्ययुक्ताय मीढुषे.
वैरिण.स्सहमानाय दुहाना मधुम.द्धविः..67
-
यजमानाय सा ज्येष्ठा विस्तृतं कुरुतां जगत्.
तत्प्रसादेन लुप्येत दुर्गति.स्तु ममाऽन्वये.. 68
इन्द्राय नमः. ज्येष्ठायै नमः..
-
मूलं नक्षत्र.मस्माभिः प्राजापत्यं सुसेव्यते.
यदीयाः पितर.स्स्यु.स्सा- प्रजां वीरवतीं दिशेत्.. 69
-
विधत्ताद् गोसमृद्धिं मे - निरृतिं च पराङ्मुखीम्.
यजमानाय मह्यं तद्-दिवेव प्रविभासताम्..70
-
यन्नक्षत्रं मूल.मिति- निर्दिशन्ति जना इह.
अहःप्रकाश.सदृशं विदधातु शुभे फले..71
-
राक्षसीं निरृतिं वाचा पराचीं तां करो.म्यह्यम्.
शिवं मम प्रजायै स्या.-न्मह्यं भद्रं सदा भवेत्..72
प्रजापतये नमः. मूलाय नमः..
-
आपो दिवि भवा या वा पार्थिवा अन्तरिक्षजाः.
पेयं यच्छन्तु सलिल.-मस्मभ्यं सस्यसम्पदम्..73
-
यदिच्छा.मनुवर्तन्ते पूर्वाऽषाढास्तु तारकाः.
अनिष्टशान्ति.हेतुत्वात् सुखदा.स्ता भवन्तु मे..74
-
पर्वतेभ्यो नदीमध्ये सागरे सम्भवन्ति याः.
वेशन्तेषु च कूपेषु खन्या या जीवयन्ति नः..75
-
यासां पूर्वा अषाढा.स्स.- मदन्ति मधुरं रसम्.
अनिष्टशान्ति हेतुत्वात्- सुखदा.स्ता भवन्तु मे..76
अद्भ्यो नमः. अषाढाभ्यो नमः..
-
विश्वे देवाः - उत्तरा अषाढाः
-
विश्वे देवाः कृपाशीला.- श्शृण्वन्तु प्रार्थनं यथा.
अषाढा उत्तरा.स्तेषा.- मभिसंयन्तु मेऽध्वरम्.. 77
-
तन्नक्षत्रसमूहो हि पशुवृद्ध्यै प्रसिध्यति.
कृषि. र्वृष्टि.र्यदायत्ता यजमानाय कल्पते..78
-
शुभ्राः कान्तियुता रूप- युक्ता.स्सन्ति सुकृत्तराः. 79
-
विश्वान् देवान् वर्धयन्त्यो हविषा वीर्यवत्तराः.
अषाढा.स्ता. स्समायन्तु काम्यमान.मिमं हवम्..80
विश्वेभ्यो देवेभ्यो नमः. अषाढाभ्यो नमः..
-
अभिजि.द्भवति श्रेष्ठं सर्वार्थविजयेन हि.
यस्मि.न्नजैषीद् ब्रह्माऽपि ब्रह्मलोक.मिदं जगत्.. 81
-
विश्वं पूर्णं सर्व.मेव तन्नक्षत्रं जयाय मे.
अपहर्तु.मशक्यायै - श्रियै दीव्ये.च्छुभप्रदम्..82
-
भूमि.र्द्यौ.रित्युभौ लोकौ विधात्रा हि समुज्जितौ.
यस्मि.न्नक्षत्रयुक्ते तु -काले देवा जयावहाः..83
-
विशेषेण ख्यापयेत् त.- दस्मान् देवेषु, मङ्गलम्.
अनुजानन्तु देवा नो - जयेम पृतना वयम्..84
ब्रह्मणे नमः. अभिजिते नमः..
-
श्रोणा तारा पुण्यकीर्तिं ददातीति प्रसिध्यति.
पापवार्तालवो यस्यां - न स्यात्, कर्मफलप्रदा.. 85
-
महाविष्णोः पालयित्री- जनै.स्तोष्टूयते सदा.
अस्माकं ता.मभिमुखीं- हविषा तर्पया.म्यहम्..86
-
अस्या.मभू.दुपेन्द्रोऽसा.- वन्तरिक्षं महीं दिवम्.
विक्रम्य कीर्तितो विष्णु.- रुरुगायो बभूव ह..87
-
अशीर्णा महती देवी- यजमानस्य मङ्गलम्.
श्रवः कामयमानेयं पुण्यकीर्तिप्रदायिनी..88
विष्णवे नमः. श्रोणायै नमः..
-
वसवोऽष्टौ सौम्यरूपा- देवाः पान्तु मम क्रतुम्.
चतस्र एता देव्योऽपि- श्रविष्ठा अजरा.स्स्मृताः.. 89
-
तद्रक्षणेन संपार्य क्रतुं, स्व.र्यानि भावुकम्.
संवत्सरीण.ममृतं - क्षेमेण प्राप्नुया.महम्.. 90
-
अवन्तु यज्ञ.मस्माकं पुरस्ता.द्वसुदेवताः.
आभिमुख्येन मायन्तु - श्रविष्ठा दक्षिणा दिशि.. 91
-
भजेम पुण्यं नक्षत्र.- महं भूयास.मुत्तमः. 92
वसुभ्यो नमः. श्रविष्ठाभ्यो नमः..
-
वरुणो राजते राजा तस्मा.च्छतभिष.ग्वरः.
क्षत्रस्य पालको लोके-ऽधिराजो यज्ञ.मैतु मे.. 93
-
देवदानवसंग्रामे- यस्मि.न्नक्षत्रसन्निधौ.
अभिषज्य.न्छतं देवा- स्तस्मा.च्छतभिषक्.छ्रुतः..94
-
देवानां भिष.गस्मभ्यं - भेषजानि प्रयच्छतु.
शतं सहस्राणि च मे दीर्घायुष्यस्य हेतवे..95
-
दृढान् कुर्या.दशिथिलान् नीरोगान् हृष्टमानसान्.
तारावसिष्ठ.वरुणा.- वुपयातां क्रतुं मम..96
वरुणाय नमः. शतभिषजे नमः..
-
अजः एकपात् - पूर्व प्रोष्ठपदाः
-
अजन्मा भासते योऽग्नि.- रेकपात् सूर्य एव सः.
अद्य प्रोष्ठपदैः पूर्वै.-रुदित.स्सह जीविनः..97
-
प्रति मोदयते, देवाः प्रसवं तस्य यन्ति च.
पीयूष गोपका. श्शस्ता.-स्ते प्रोष्ठपद नामकाः..98
-
विभ्राजमान.स्सर्वान् प्र- काशय.न्नुग्रतेजसा.
अन्तरिक्षं द्युलोकञ्च- रोहत्येष दिवाकरः..99
-
तं प्रोष्ठपद.नक्षत्र- देहाः पर्यनुयन्ति ते.
देवानाञ्च मनुष्याणां रक्षां कुर्वन्तु पावनाः..100
अजायैकपदे नमः. प्रोष्ठपदेभ्यो नमः.
-
अहिर्बुध्नियः - उत्तर प्रोष्ठपदाः
-
न हीयतेऽहिर्, लोकस्य - बुध्ने भवति बुध्नियः.
स आदिदेवो रुद्रोऽयं जग.दुत्पत्तिमान् मतः.. 101
-
देवमानव सङ्घाते श्रेष्ठं सेवन्त एव तम्.
सोमपा ब्राह्मणा.स्तारा उत्तराभाद्र.नामकाः..102
-
यान् प्रोष्ठपद.नाम्नैव निर्दिशन्ति जना.स्तु ते.
नक्षत्रदेहा.श्चत्वार.- स्सेवाकर्मपरायणाः..103
-
परिषद्य.महिं बुध्न्य.- मुपसीदन्ति सन्ततम्.
स्तोत्रै.र्नमोभिर् देवाश्च .-वयं तं संस्तुवीमहि..104
अहये बुध्नियाय नमः. प्रोष्ठपदेभ्यो नमः..
-
पूषा च रेवतीतारा- गच्छतां मेऽध्वरं शुभौ.
बस्त्यं बलं वाज.मन्नं ददतौ रक्षतां पशून्..105
-
हव्यानीमानि गृह्णन्ता.- वायातां सुख.मुत्तमौ.
कुलं वर्धेत रेवत्याः पूष्णोऽनुग्रह हेतुना.. 106
-
क्षुद्रान् पशून् गा रक्षेता.- मश्वान् पूषा च रेवती.
मुद्ग-गोधूम-नीवार- व्रीह्याद्यन्नस्य दानतः.. 107
-
यजमानाय वाजं तौ सनुतां पोषका.वुभौ.
मा कश्चि.द्धीयतां पोषैः पोषके पूष्णि संस्थिते..108
पूष्णे नमः. रेवत्यै नमः..
-
अश्विनौ ता.वश्वयुग्भ्यां- सहिता.वध्वरं मम.
नियन्तुं सुशकै. रश्वै.- रुपयातां शुभेच्छुकौ..109
-
स्वीयं नक्षत्रयुग्मं तौ यजन्तौ हविषा सदा.
संपृक्तौ मधुनाऽस्माभिर्- नासत्यौ यजुषा स्तुतौ.. 110
-
श्रेयांसौ देवभिषजौ वोढारौ हविषां श्रुतौ.
श्रोत्रस्विना.वबधिरौ श्रोत्रेन्द्रिय. विवर्धकौ..111
-
विश्वस्य दूतौ भवता.- ममृतस्य सुरक्षकौ.
नक्षत्राभ्या.मश्वयुग्भ्यां नन्नम्येते मया सह..112
अश्विभ्यां नमः. अश्वयुग्भ्यां नमः..
-
यमोऽपभरणीभि.र्मे पाप्मानं नाशयेत् प्रभुः.
-
ऽसौ पितृलोकस्य महतोऽपि महान् हि सः.. 113
-
विचष्टां भगवा.नस्मा.- ननुगृह्णातु सर्वदा.
लोकान्तर प्रयाणेऽपि भवता.दभयं मम.. 114
-
यस्मि.न्नक्षत्रकालेऽसौ यमराजोऽभ्यषिच्यत.
-
ऽपि प्रेतादीनां नियामकः.. 115
-
तै.श्चाऽपभरणीभि.स्स गृह्णीतां हवि.रध्वरे. 116
यमाय नमः. अपभरणीभ्यो नमः..
-
निवेशयन्ती गेहेषु - समीचीनेषु देवता.
विश्वरूपा.नियं पोषा.-नमावास्याऽभिमानिनी.. 117
-
वसूनां निधनानाञ्च प्रापयित्री विराजते.
सहस्रपोषं सुभगाप्रयच्छन्ती समैतु माम्..118
-
अमावास्ये महिम्ना ते देवा. स्सर्वे हविर्भुजः.
भागधेयं प्राप्नुवन् तत् तुभ्यं कुर्मो नमो वयम्.. 119
-
सौभाग्यदा भवाऽस्मभ्यं विश्वस्याऽरिष्टनाशनी.
परिपूरय यज्ञ.न्नो रयिं धेहि निरन्तरम्..120
अमावास्यायै नमः..
-
नवो नवो जायमान.- श्शुक्ले पक्षे हि चन्द्रमा:.
अह्ना.मन्ते पुरोषोभ्यो ज्योत्स्ना तस्य विभासते..121
-
स्वीयागमन.भाग्येन देवयज्या: प्रकल्पते.
-
ऽयं चन्द्रमा आयु.- स्तिरते यज्वनां सदा.. 122
-
संराजते विष्णुपद- एधय.न्नोषधी.रसौ.
अंशु.माप्यायय.न्त्यस्य स्वै.रादित्या दिवा निशा..123
-
सोम.मेतं सुरा मर्त्या: पिब.न्त्यक्षितयेऽध्वरे.
बृहस्पति. स्सहैतेन वरुणो वर्धये.च्च नः..124
चन्द्रमसे नमः. प्रतीदृश्यायै नमः.
-
ये विरूपे अहोरात्रे संव्ययन्त्यौ मयेडिते.
द्वाभ्याञ्च शुक्लकृष्णाभ्यां व्रीहिभ्या. मीप्सिते हवे.125
-
सांमनस्यं सुमनसौ ददतां देवते उभे.
विभू प्रभू ते अनुभू तन्वातां तन्तु.मन्वयम्. 126
-
अहोरात्रे देवते ते हविषाप्यायया.न्यहम्.
मम यज्ञं सहैतां त.-दतिमुच्येय पाप्मन:..127
-
ब्रह्मणाऽनेन देव्यौ ते संविदाम यजेम च.
तत्कृपा.लब्धसंपत्त्या सुरत्ना.स्स्याम सर्वदा..128
अह्ने नमः. रात्र्यै नमः .
-
उषा दुहितृरूपेयं द्यो.र्दरीदृश्यते परम्.
प्रत्यहं दैवकर्माणि कारयन्ती शुभङ्करी..129
-
प्रतिप्रभात.मायन्ती व्युच्छन्ती हितदायिका.
तमसा प्रावृतं लोकं काशयन्ती महीयते..130
-
सूनरी व्यवहाराणां सुष्ठु नेत्री प्रकाशतः.
उस्रिया. स्सचते रश्मी.-नुदयन् भानु.रर्चिमान्..131
-
सह व्युष्टौ तु युवयो.- रुषो देवि दिवाकर.
नक्षत्रवद् भा.समेतो लोकोऽय.मवतं प्रजाम्.. 132
उषसे नमः
-
नक्षत्रदेवं प्रणमन् मनुष्याणां महोत्तमाम्.
स्थितिं मतिं लभेयाऽहं नित्यकर्म.परायणः.. 133
-
भक्तेनाऽन्नेन हविषा यज्ञे तं जुहुयां कृती.
अर्चितं भानुयुक्तञ्च नक्षत्रं हव.मैतु मे..134
-
परमैश्वर्य.सन्धात्र- इन्दुतुल्यं सुधामयम्.
प्रदाय हवि.रिन्द्राय वरं याचे सभक्तिकः..135
-
वीरवत्.सनिदाता मे पोषकोऽसि कुले मम.
नक्षत्रदेव सविता मते.र्मम भव प्रभो..136
नक्षत्राय नमः..
-
उद्यन्तं रवि.मुद्वीक्ष्य तस्य भामण्डलं तथा.
जातवेदोनिभं देवं मन्ये सूर्यं महोज्ज्वलम्..137
-
उद्वहन्तीव दृश्यन्ते केतुस्थानीय.रश्मयः.
विश्वस्य दर्शनार्थे च लोकानां हितकाम्यया..138
-
रक्तश्वेतादि.वर्णैश्च चित्र.मालोक्यते दिवि.
-
ऽयं सेनेव भ्राजते भृशम्.. 139
-
मित्राग्निवरुणादीनां देवानां प्राणिनां भुवि.
चक्षुरिन्द्रिय.सङ्काशं भाव्यते सूर्यमण्डलम्..140
-
तस्थुषो जङ्गमस्याऽसा.- वात्मा सूर्यो जगत्प्रभुः.
द्यावापृथिव्यौ व्योमाऽपि संपूरयति भास्करः.. 141
सूर्याय नमः..
-
अदिती रक्षता.दस्मा- नदिति.श्शर्म यच्छतु.
अंहसां त्रितया.त्पातु- मां माताऽदितिदेवता.. 142
-
देवानिव स्वतनयान् पालयन्ती विराजते.
वात्सल्यभावसंयुक्ता सदाऽस्मान् रक्षता.दियम्.. 143
-
अस्माक.मवनायेमा.- माह्वयामि सुरप्रसूम्.
महनीयां सुव्रतानांमातृव.द्धितकारिणीम्..144
-
अजीर्यन्तीं बहुक्षत्रां सत्यस्यर्तस्य पालिकाम्.
-
समीचीनसुखोपेतां विस्तीर्णां सुप्रणायिकाम्.. 145
अदित्यै नमः..
-
इदं त्रयं हि जगतां विष्णु.र्देवो विचक्रमे.
त्रिविक्रम प्रसिद्धोऽसौ पदं त्रेधा न्यधा.द्विभुः.. 146
-
भू.रन्तरिक्षं द्यौश्चाऽपि पांसव.स्तत्पदे मताः.
समूढं येन भुवनं- स मे विष्णुः प्रसीदतु..147
-
उल्लंघति गिरौ सिंहो यथोत्प्लुत्य बलाद् भुवः.
-
सीद् भीमवीर्येण क्रममाणः पदत्रयम्.. 148
-
वसन्ति लोका. स्ससुखं तस्य विक्रमणे.ष्वधि.
सैव यज्ञप्रतिष्ठा हि- महाविष्णुः प्रसीदतु..149
विष्णवे नमः.
-
अग्नि.र्मूर्धेव लोकस्य सूर्यरूपी विराजते.
ककु.द्दिव.श्चोच्छ्रितत्वात् स्वर्ग्योऽग्निः पार्थिवोऽपि सः. 150
-
पाक.दाहादि.कारित्वात् पृथिव्याः पति.रीरितः.
अपां स्रष्टा जाठर.स्सन्प्राणि.कार्याणि जिन्वति..151
-
भुवि लोके तत्र यज्ञ- कर्मणो नेतृता त्वयि.
अग्ने द्युलोके सचसे शिवाभि.स्सप्तरश्मिभिः..152
-
सूर्य.स्सुवर्षा भगव.- न्नुन्नतं कुरुषे दिवम्.
-
गृह्णन्तु हवि.रस्माकं- सप्त जिह्वाश्च तावकाः.. 153
अग्नये नमः..
-
39. अनुमतिः - सञ्चर देवता
-
अनुमन्येत यज्ञं मे- ऽनुमति.र्देवतागणे.
-
ऽद्य- मया प्रचरितं भवेत्.. 154
-
अग्निश्च हव्यवा.ड्देवो हवि.र्दत्तवते सुखम्.
मह्यं प्रयच्छे.न्महितो- देवयज्योत्तरा भवेत्..155
-
हे देव्यनुमते भक्त्या प्रार्थये शं कुरुष्व मे.
अनुमन्यस्व विहितं सुफलं कर्म नो भवेत्..156
-
दक्षं क्रतुं शरीरेषु वर्धयस्व प्रपूजिते.
-
स्माकायूंषि- सुखं शान्तिं च देहि नः.. 157
अनुमत्यै नमः..
-
हव्यवाहं सञ्जुहुमो जिष्णुं रक्षोहणं हवे.
-
वासं ज्योतिष्मन्त.मभीष्टदम्.. 158
-
दीद्यन्त. माराधये त.- मिष्टं स्विष्टं करोति यः.
अभिमातीन् पाप्मनोऽभि- भावयेद् गृहपो मम.. 159
-
प्रक्षिप्तं हवि.रस्माकं - वैकल्य.रहितं कुरु.
अग्ने देव श्रुतौ लोके स्विष्टकृत् त्वं प्रसिध्यसि..160
विश्वशत्रून् निराकुर्वन् विस्तीर्णान् मे पथः कुरु.
-
आयु.र्वर्धस्व वेदोक्तं ज्योतिष्म.दजरं मम.. 161
अग्नये स्विष्टकृते नमः..
-
वेदार्थस्याऽनुवादोऽयं नक्षत्रस्तोत्र नामकः.
वाग्व्यापार.स्स्तव्यदेव- प्रीतिदा.स्स्या.द्ध्रुवा मतिः..162
-
यत्करोमि यदश्नामि यज्जुहोमि ददामि यत्।
यत् तपस्यामि वार्ष्णेय तत्करोमि त्वदर्पणम्।।
-
त्वदीयं वस्तु गोविंद तुभ्यमेव समर्पये।।
।।श्रीपरमेश्वरार्पणमस्तु।।
|